कल्याण मंदिर स्तोत्र
कल्याण-मन्दिरमुदारमवद्य-भेदि
भीताभय-प्रदमनिन्दितमंग्-घ्रि-पद्मम्|
संसार-सागर-निमज्जदशेष-जन्तु-
पोतायमानभभिनम्यजिनेश्वरस्य|1|
यस्यस्वयंसुरगुरुर्गरिमाम्बुराशेः
स्तोत्रंसुविस्त्रत-मतिर्नविभुर्विधातुम्|
तीर्थेश्वरस्यकमठ-स्मय-धूमकेतो-
स्तस्याहमेषकिलसंस्तवनंकरिष्ये|2|
सामान्यतोऽपितववर्णयितुंस्वरुप-
मस्मादृशःकथमधीशभवन्त्यधीशाः|
धृष्टोऽपिकौशिक-शिशुर्यदिवादिवान्धो
रुपंप्ररुपयतिकिंकिलधर्मरश्मेः |3|
मोह-क्षयादनुभवन्नपिनाथमत्य्रो
नूनंगुणान्गणयितुंनतवक्षमेत|
कल्पान्त-वान्त-पयसःप्रकटोऽपियस्मा-
न्मीयेतकेनजलधेर्ननुरत्नराशिः |4|
अभ्युद्यतोऽस्मितवनाथजडाशयोऽपि
कर्तुंस्तवंलसदसंख्य-गुणाकरस्य |
बालोऽपिकिंननिज-बाहु-युगंवितत्य
विस्तीर्णतांकथयतिस्वधियाम्बुराशेः|5|
येयोगनामपिनयान्तिगुणास्तवेश
वक्तुंकथंभवतितेषुममावकाशः |
जातातदेवमसमीक्षित-कारितेयं
जल्पन्तिवानिज-गिराननुपक्षिणोऽपि|6|
आस्तामचिन्त्य-महिमाजिनसंस्तवस्ते
नामापिपातिभवतोभवतोजगन्ति |
तीव्रातपोपहत-पान्थ-जनान्निदाघे
प्रीणातिपद्म-सरसःसरसोऽनिलोऽपि|7|
ह्रद्वर्तिनित्वयिविभोशिथिलीभवन्ति
जन्तोःक्षणेननिबिडाअपिकर्म-बन्धाः|
सद्योभुजंगममयाइवमध्य-भाग-
मभ्यागतेवन-शिखण्डिनिचन्द्रनस्य|8|
मुच्यन्तएवमनुजाःसहसाजिनेन्द्र
रौद्रैरुपद्रव-शतैस्त्वयिवीक्षितेऽपि |
गो-स्वामिनिस्फुरित-तेजसिदृष्टमात्रे
चौरैरिवाशुपशवःप्रपलायमानैः |9|
त्वंतारकोजिनकथंभविनांतएव
त्वामुद्वहन्तिह्रदयेनयदुत्तरन्तः |
यद्वादृतिस्तरतियज्जलमेषनून-
मन्तर्गतस्यमरुतःसकिलानुभावः10|
यस्मिन्हर-प्रभृतयोऽपिहत-प्रभावाः
सोऽपित्वयारति-पतिःक्षपितःक्षणेन|
विध्यापिताहुतभुजःपयसाथयेन
पीतंनकिंतदपिदुर्धर-वाडवेन |11|
स्वामिन्ननल्प-गरिमाणमपिप्रपन्नाः
त्वांजन्तवःकथमहोह्रदयेदधानाः |
जन्मोदधिंलघुतरन्त्यतिलाघवेन
चिन्त्योनहन्तमहतांयदिवाप्रभावः|12|
क्रोधस्त्वायदिविभोप्रथमंनिरस्तो
ध्वस्तास्तदावदकथंकिलकर्म-चौराः|
प्लोषत्यमुत्रयदिवाशिशिरापिलोके
नील-द्रुमाणिविपिनानिनकिंहिमानी|13|
त्वांयोगिनोजिनसदापरमात्मरुप-
मन्वेषयन्तिह्रदयाभ्बुज-कोष-देशे|
पूतस्यनिर्मल-रुचेर्यदिवाकिमन्य-
दक्षस्यसम्भव-पदंननुकर्णिकायाः|14|
ध्यानाज्जिनेशभवतोभविनःक्षणेन
देहंविहायपरमात्म-दशांव्रजन्ति |
तीर्वानलादुपल-भावमपास्यलोके
चामीकरत्वमचिरादिवधातु-भेदाः|15|
अन्तःसदैवजिनयस्यविभाव्यसेत्वं
भव्यैःकथंतदपिनाशयसेशरीरम् |
एतत्स्वरुपमथमध्य-विवंर्तिनोहि
यद्विग्रहंप्रशमयन्तिमहानुभावाः |16|
आत्मामनीषिभिरयंत्वदभेद-बुद्धया
ध्यातोजिनेन्द्रभवतीहभवत्प्रभावः|
पानीयमप्यमृतमित्यनुचिन्त्यमानं
किंनामनोविष-विकारमपाकरोति|17|
त्वामेवबीत-तमसंपरवादिनोऽपि
नूनंविभोहरि-हरादि-धियाप्रपन्नाः|
किंकाच-कामलिभिरीशसितोऽपिशंखो
नोगृह्यतेविविध-वर्ण-विपर्ययेण |18|
धर्मोपदेश-समयेसविधानुभावाद्
आस्तांजनोभवतितेतरुरप्यशोकः|
अभ्युद्गतेदिनपतौसमहीरुहोऽपि
किंवाविबोधमुपयातिनजीव-लोकः|19|
चित्रंविभोकथमवांगमुख-वृन्तमेव
विष्वक्पतत्यविरलासुर-पुष्प-वृष्टिः|
त्वद्गोचरेसुमनसांयदिवामुनीश
गच्छन्तिनूनमधएवहिबन्धनानि |20|
स्थानेगभीर-ह्रदयोदधि-सम्भवायाः
पीयूषतांतवगिरःसमुदीरयन्ति |
पीत्वायतःपरम-सम्मद-संग-भाजो
भव्याव्रजन्तितरसाप्यजामरत्वम्|21|
स्वामिन्सुदूरमवनम्यसमुत्पतन्तो
मन्येवदन्तिशुचयःसुर-चामरौघाः|
येऽस्मैनतिंविदधतेमुनि-पुंगवाय
तेनूनमूधर्व-गतयःखलुशुद्ध-भावाः|22|
श्यामंगभीर-गिरमुज्ज्वल-हेम-रत्न-
सिंहासनस्थमिहभव्य-शिखण्डिनस्त्वाम्|
आलोकयन्तिरभसेननदन्तमुच्चैः
श्र्वामीकराद्रि-शिरसीवनवाम्बुवाहम् |23|
उद्गच्छतातवशिति-द्युति-मण्डलेन
लुप्त-च्छद-च्छविरशोक-तरुर्बभूव |
सांनिध्यतोऽपियदिवातववीतराग
नीरागतांव्रजतिकोनसचेतनोऽपि |24|
भोभोःप्रमादमवधूयभजध्वमेन-
मागत्यनिर्वृति-पुरींप्रतिसार्थवाहम्|
एतन्निवेदयतिदेवजगत्त्रयाय
मन्येनदन्नभिनभःसुरदुन्दुभिस्ते|25|
उद्दयोतितेषुभवताभुवनेषुनाथ
तारान्वितोविधुरयंविहताधिकारः|
मुक्ता-कलाप-कलितोरु-सितातपत्र-
व्याजात्त्रिधाधृत-तनुध्रुर्वमभ्युपेतः|26|
स्वेनप्रपूरित-जगत्त्रय-पिण्डितेन
कान्ति-प्रताप-यशसामिवसंचयेन|
माणिक्य-हेम-रजत-प्रविनिर्मितेन
सालत्रयेणभगवन्नभितोविभासि|27|
दिव्य-स्रजोजिननमत्त्रिदशाधिपाना-
मुत्सृज्यरत्न-रचितानपिमौलि-बन्धान्|
पादौश्रयन्तिभवतोयदिवापरत्र
त्वत्संगमेसुमनसोनरमन्तएव |28|
त्वंनाथजन्म-जलधेर्विपरांगमुखोऽपि
यत्तारयस्यसुमतोनिज-पृष्ठ-लग्रान्|
युक्तंहिपार्थिव-निपस्यसतस्तवैव
चित्रंविभोयदसिकर्म-विपाक-शून्यः|29|
विश्वेश्वरोऽपिजन-पालकदुर्गतस्त्वं
किंवाक्षर-प्रकृतिरप्यलिपिस्त्वमीश|
अज्ञानवत्यपिसदैवकथञ्चिदेव
ज्ञानंत्वयिस्फुरतिविश्व-विकास-हेतुः|30|
प्राग्भार-सम्भृत-नभांसिरजांसिरोषद्
उत्थापितानिकमठेनशठेनयानि|
छायापितैस्तवननाथहताहताशो
ग्रस्तस्त्वमीभिरयमेवपरंदुरात्मा |31|
यद्रर्जदूर्जित-घनौघमदभ्र-भीम-
भ्रश्यत्तडिन्मुसल-मांसल-घोरधारम्|
दैत्येनमुक्तमथदुस्तर-वारिदध्रे
तेनैवतस्यजिनदुस्तर-वारिकृत्यम्|32|
ध्वस्तोध्र्व-केश-विकृताकृति-मत्र्य-मुण्ड-
प्रालम्बभृभ्दयवक्त्र-विनिर्यदग्निः |
प्रेमव्रजःप्रतिभवन्तमपीरितोयः
सोऽस्याभवत्प्रतिभवंभव-दुःख-हेतुः |33|
धन्यास्तएवभुवनाधिपयेत्रिसन्ध्य-
माराधयन्तिविधिवद्विधुतान्य-कृत्याः|
भक्त्योल्लसत्पुलक-पक्ष्मल-देह-देशाः
पाद-द्वयंतवविभोभुविजन्मभाजः |34|
अस्मिन्नपार-भव-वारि-निधौमुनीश
मन्येनमेश्रवण-गोचरतांगतोऽसि |
आकर्णितेतुंतवगोत्र-पवित्र-मन्त्रे
किंवाविपद्विषधरीसविधंसमेति |35|
जन्मान्तरेऽपितवपाद-युगंनदेव
मन्येमयामहितमीहित-दान-दक्षम्|
तेनेहजन्मनिमुनीशपराभवानां
जातोनिकेतनमहंमथिताशयानाम्|36|
नूनंनमोह-तिमितावृत-लोचनेन
पूर्वंविभोसकृदपिप्रविलोकितोऽसि|
मर्माविधोविधुरयन्तिहिमामनर्थाः
प्रोद्यत्प्रबन्ध-गतयःकथमन्यथैते|37|
आकर्णितोऽपिमहितोऽपिनिरीक्षितोऽपि
नूनंनचेतसिमयाविधृतोऽसिभक्त्या|
जातोऽस्मितेनजन-बान्धवदुःखपात्रं
यस्मात्क्रियाःप्रतिफलन्तिनभाव-शून्याः|38|
त्वंनाथदुःखि-जन-वत्सलहेशरण्य
कारुण्य-पुण्य-वसतेवशिनांवरेण्य |
भक्त्यानतेमयिमहेशदयांविधाय
दुःखांग्कुरोद्दलन-तत्परतांविधेहि |39|
निःसख्य-सार-शरणंशरणंशरण्य-
मासाद्यसादित-रिपुप्रथितावदानम्|
त्वत्पाद-पंकजमपिप्रणिधान-बन्ध्यो
बन्ध्योऽस्मिचेभ्दुवन-पावनहाहतोऽस्मि|40|
देवेन्द्र-वन्द्यविदिताखिल-वस्तुसार
संसार-तारकविभोभुवनाधिनाथ|
त्रायस्वदेवकरुणा-ह्रदमांपुनीहि
सीदन्तमद्यभयद-व्यसनाम्बु-राशेः|41|
यद्यस्तिनाथभवदंगघ्रि-सरोरुहाणां
भक्तेःफलंकिमपिसन्तत-सञ्चितायाः|
तन्मेत्वदेक-शरणस्यभूयाः
स्वामीत्वमेवभुवनेऽत्रभवान्तरेऽपि|42|
इत्थंसमाहित-धियोविधिवज्जिनेन्द्र
सान्द्रोल्लसत्पुक – कञ्चुकितांगभागाः |
त्वद्विम्ब-निर्मल-मुखाम्बुज-बद्ध-लक्ष्या
येसंस्तवंतवविभोरचयन्तिभव्या|43|
जन-नयन-‘कुमुदचन्द्र’-प्रभास्वराःस्वर्ग-सम्पदोभुक्त्वा|
तेविगलित-मल-निचयाअचिरान्मोक्षंप्रपद्यन्ते |44|